Wednesday, 5 April 2023

गायत्री यो न जानाति वृथा तस्य परिश्रमः ।

 गायत्री यो न जानाति वृथा तस्य परिश्रमः ।

छन्दोगपरिशिष्टे - "सर्वेषामेव वेदानां गुद्योपनिषदां तथा । सारभूता तु गायत्री निर्गता ब्रह्मणो मुखात् ॥"
बृहद्यमोऽपि - "न तथा वेदजपतः पापं निर्दहति द्विजः । यथा सावित्रीजपतः सर्वपापैः प्रमुच्यते ।। "
कूर्मपुराणे- "गायत्री चैव वेदांश्च तुलया समतोलयत् । वेदा एकत्र साङ्गास्तु गायत्री चैकतः स्मृता" ।।
नागदेवोऽपि - "गायन्तं त्रायते यस्माद् गायत्री तेन चोच्यते" ।।
श्रीशारदा तिलकेऽपि एकविंशतिपटलारंगे- “अथो वक्ष्यामि गायत्रीं तत्त्वरूपां त्रयीमयीम् | यया प्रकाश्यते ब्रह्म सच्चिदानंदलक्षणम्" ।। इति कथि तम् ।।
अन्यत्रापि गायत्र्या माहात्म्यं श्रूयते यथाऽस्त्रसंग्रहे-
"गायत्री परदेवतेति गदिता ब्रह्मैव चिद्रूपिणी ।। "
गायत्री जपादौ फलमुक्तं वृद्धपराशरस्मृतौ "गायत्रीजपकृद्भच्या सर्वपापैः प्रमुच्यते ।। "
भविष्यपुराणे- "सर्वपापानि नश्यन्ति गायत्री जपतो नृप" ॥
आग्नेये- "ऐहिकामुष्मिकं सर्वं गायत्री जपतो भवेत्" ।।
पद्मपुराणे "ब्रह्महत्यादिपापानि गुरूणि च लघूनि च नाशयत्यचिरेणैव गायत्री जापको द्विजः ॥"
श्रीमच्छंकराचार्यविरचितायां गायत्रीपुरश्चरणपद्धतौ-
"तत्र तावत्सावित्रीशब्देन पर देवतेति चोच्यते
तदुक्तं भारद्वाजीये-सूते जगदादि सा सावित्री सर्वजगत्प्रसवादिकर्त्री सैव गायत्रीत्युच्यते | सेव सेव्यत्वेन शब्दब्रह्मेत्युच्यते
उक्तं च नारायणोपनिषदि
"गायत्री छंदसां मातेदं ब्रह्म जुषस्व मे ।।"
भगवद्गीतासु च -
"गायत्री छन्दसामहम्" इति ।।

No comments:

Post a Comment